(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.92. अध्यायः 092
Mahabharata - Drona Parva - Chapter Topics
अर्जुनेन श्रुतायुधसुदक्षिणयोर्वधः॥ 1 ॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-92-0x(4498)(48170)
सन्निरुद्धस्तु तैः पार्थो महाबलपराक्रमः।
द्रुतं समनुयातश्च द्रोणेन रथिनां वरः॥ 7-92-1(48171)
किरन्निषुगणांस्तीक्ष्णान्स रश्मीनिव भास्करः।
तापयामास तत्सैन्यं देहं व्याधिगणो यथा॥ 7-92-2(48172)
अश्वो विद्धो रथश्छिन्नः सारोहः पातितो गजः।
छत्राणि चापविद्धानि रथाश्चक्रैर्विना कृताः॥ 7-92-3(48173)
विद्रुतानि च सैन्यानि शरार्तानि समन्ततः।
इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन॥ 7-92-4(48174)
तेषां संयच्छतां सङ्ख्ये परस्परमजिह्मगैः।
अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत्॥ 7-92-5(48175)
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसङ्गरः।
अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः॥ 7-92-6(48176)
तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः।
अन्तेवासिनमाचार्यो महेष्वासं समार्पयत्॥ 7-92-7(48177)
तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः।
अभ्यधावदिषूनस्यन्निषुवेगविघातकान्॥ 7-92-8(48178)
तस्याशु क्षिपतो भल्लान्भल्लैः सन्नतपर्वभिः।
प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन्॥ 7-92-9(48179)
तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि।
यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः॥ 7-92-10(48180)
क्षरन्निव महामेघो वारिधाराः सहस्रशः।
द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः॥ 7-92-11(48181)
अर्जुनः शरवर्षं तच्छरवर्षेण वीर्यवान्।
अवारयदसम्भ्रान्तो न त्वाचार्यमपीडयत्॥ 7-92-12(48182)
द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत्।
वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः॥ 7-92-13(48183)
पार्थस्तु प्रहसन्धीमानाचार्यं स शरौघिणम्।
विसृजन्तं शितान्बाणानवारयत तं युधि॥ 7-92-14(48184)
अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ।
अवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम्॥ 7-92-15(48185)
वर्जयन्निशितान्बाणान्द्रोणचापविनिः सृतान्।
किरीटमाली कौन्तेयो भोजानीकमथाविशत्॥ 7-92-16(48186)
सोऽन्तरा कृतवर्माणं काम्भोजं च सुदक्षिणम्।
अभ्ययाद्वर्जयन्द्रोणं मैनाकमिव पर्वतम्॥ 7-92-17(48187)
ततो भोजो नरव्याघ्रो दुर्धर्षं कुरुसत्तमम्।
अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः॥ 7-92-18(48188)
तमर्जुनः शतेनाजौ राजन्विव्याध पत्रिणाम्।
पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम्॥ 7-92-19(48189)
भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम्।
एकैकं पञ्चविंशत्या सायकानां समार्पयत्॥ 7-92-20(48190)
तस्यार्जुनो धनुश्छित्त्वा वियाधैनं त्रिसप्तभिः।
शरैरग्निशिखाकारैः क्रुद्धाशीविषसन्निभैः॥ 7-92-21(48191)
अथान्यद्धनुरादाय कृतवर्मा महारथः।
पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत॥ 7-92-22(48192)
पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः।
तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे॥ 7-92-23(48193)
दृष्ट्वा विषक्तं कौन्तेयं कृतवर्मरथं प्रति।
चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत्॥ 7-92-24(48194)
ततः कृष्णोऽब्रवीत्पार्थं कृतवर्मणि मा दयाम्।
कुरु सम्बन्धकं हित्वा प्रमथ्यैनं विशातय॥ 7-92-25(48195)
ततः स कृतवर्माणं महोयित्वाऽर्जुनः शरैः।
अभ्यगाज्जवनैरश्वैः काम्भोजानामनीकिनीम्॥ 7-92-26(48196)
अमर्षितस्तु हार्दिक्यः प्रविष्टे श्वेतवाहने।
विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः॥ 7-92-27(48197)
चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ।
पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः॥ 7-92-28(48198)
तावविध्यत्ततो भोजः कृतवर्मा शितैः शरैः।
त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम्॥ 7-92-29(48199)
तावप्येनं विविधतुर्दशभिर्दशभिः शरैः।
त्रिभिरेव युधामन्युरुत्तगौजास्त्रिभिस्तथा।
सञ्चिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च॥ 7-92-30(48200)
अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्च्छितः।
कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत्॥ 7-92-31(48201)
तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः।
तेनान्तरेषु बीभत्सुर्विवेशामित्रवाहिनीम्॥ 7-92-32(48202)
न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा।
धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ॥ 7-92-33(48203)
अनीकान्यर्दयन्युद्धे त्वरितः श्वेतवाहनः।
नावधीत्कृतवर्माणं प्राप्तमप्यरिसूदनः॥ 7-92-34(48204)
तं दृष्ट्वा तु तथाऽऽयान्तंशूरो राजा श्रुतायुधः।
अभ्यद्रवत्सुसङ्क्रुद्धो विधुन्वानो महद्धनुः॥ 7-92-35(48205)
स पार्थं त्रिभिरानर्च्छत्सप्तत्या च जनार्दनम्।
क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत्॥ 7-92-36(48206)
ततोऽर्जुनो नवत्या तु शराणां नतपर्वणाम्।
आजघान भृशं क्रुद्धस्तोत्रैरिव महाद्विपम्॥ 7-92-37(48207)
स तन्न ममृषे राजन्पाण्डवेयस्य विक्रमम्।
अथैनं सप्तसप्तत्या नाराचानां समार्पयत्॥ 7-92-38(48208)
तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च।
आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः॥ 7-92-39(48209)
अथान्यद्धनुरादाय स राजा क्रोधमूर्च्छितः।
वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत्॥ 7-92-40(48210)
ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिन्दमः।
शरैरनेकसाहस्रैः पीडयामास भारत॥ 7-92-41(48211)
अश्वांश्चास्यावधीत्तूर्णं सारथिं च महारथः।
विव्याध चैनं सप्तत्या नाराचानां महाबलः॥ 7-92-42(48212)
हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः।
अभ्यद्रुवद्रुणे पार्थं गदामुद्यम्य वीर्यवान्॥ 7-92-43(48213)
वरुणस्यत्मजो वीरः स तु राजा श्रुतायुधः।
पर्णाशाजननी यस्य शीततोया महानदी॥ 7-92-44(48214)
तस्य माताऽब्रवीद्राजन्वरुणं पुत्रकारणात्।
अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम॥ 7-92-45(48215)
वरुणस्त्वब्रवीत्प्रीतो ददाम्यस्मै वरं हितम्।
दिव्यमस्त्रं सुतस्तेऽयं येनावध्यो भविष्यति॥ 7-92-46(48216)
नास्ति चाप्यमरत्वं वै मनुष्यस्य कथञ्चन।
सर्वेणावश्यमर्तव्यं जातेन सरितां वरे॥ 7-92-47(48217)
दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा।
अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः॥ 7-92-48(48218)
इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम्।
यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः॥ 7-92-49(48219)
उवाच चैनं भगवान्पुनरेव जलेश्वरः।
अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति॥ 7-92-50(48220)
हन्यादेषा प्रतीपं हि प्रयोक्तारमपि प्रभो।
न चाकरोत्स तद्वाक्यं प्राप्ते काले श्रुतायुधः॥ 7-92-51(48221)
स तया वीरघातिन्या जनार्दनमताडयत्।
प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान्।
नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवानिलः॥ 7-92-52(48222)
`ततोऽर्जुनः क्षुरप्राभ्यां भुजौ परिघसन्निभौ।
चिच्छेद पाण़्डवः शीघ्रं जलेश्वरसुतस्य वै॥ 7-92-53(48223)
स ज्वलन्ती महोल्केव समासाद्य जनार्दनम्'।
प्रत्यागता महावेगा कृत्येव दुरधिष्ठिता॥ 7-92-54(48224)
जघान चास्थितं वीरं श्रुतायुधममर्षणम्।
`स पपात हतो भूमौ विशिरा विभुजो बली।
सम्भग्न इव वातेन बहुशाखो वनस्पतिः॥ 7-92-55(48225)
सा विस्फुरन्ती ज्वलिता वज्रवेगसमा गदा'।
हत्वा श्रुतायुधं वीरं धरणीमन्वपद्यत॥ 7-92-56(48226)
गदां निवर्तितां दृष्ट्वा निहतं च श्रुतायुधम्।
हाहाकारो महांस्तत्र सैन्यानां समजायत।
स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिन्दमम्॥ 7-92-57(48227)
अयुध्यमानाय ततः केशवाय नराधिप।
क्षिप्ता श्रुतायुधेनाथ तस्मात्तमवधीद्गदा॥ 7-92-58(48228)
यथोक्तं वरुणेनाजौ तथा स निधनं गतः।
व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम्॥ 7-92-59(48229)
पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः।
सम्भग्न इव वातेन बहुशाखो वनस्पतिः॥ 7-92-60(48230)
ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः।
प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिन्दमम्॥ 7-92-61(48231)
ततः काम्भोजराजस्य पुत्रः शूरः सुदक्षिणः।
अभ्ययाज्जवनैरश्वैः फल्गुनं शत्रुसूदनम्॥ 7-92-62(48232)
तस्य पार्थः शरान्सप्त प्रेषयामास भारत।
ते तं शूरं विनिर्भिद्य प्राविशन्धरणीतलम्॥ 7-92-63(48233)
सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मृधे।
अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः॥ 7-92-64(48234)
वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः।
तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष॥ 7-92-65(48235)
भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः।
स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत्॥ 7-92-66(48236)
सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः।
सघण्टां प्राहिणोद्धोरां क्रुद्धो गाण्डीवधन्वने॥ 7-92-67(48237)
सा ज्वलन्ती महोल्केव तमासाद्य महारथम्।
सविस्फुलिङ्गा निर्भिद्य निपपात महीतले॥ 7-92-68(48238)
शक्या त्वभिहतो गाढं मूर्च्छयाऽभिपरिप्लुतः।
समाश्वास्य महातेजाः सृक्विणी परिलेलिहन्॥ 7-92-69(48239)
तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः।
साश्वध्वजधनुःसूतं विव्याधाचिन्त्यविक्रमः॥ 7-92-70(48240)
रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः।
सुदक्षिणं तं काम्भोजं मोघसङ्कल्पविक्रमम्।
बिभेद हृदि बाणेन पृथुधारेण पाण्डवः॥ 7-92-71(48241)
स भिन्नवर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः।
पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः॥ 7-92-72(48242)
गिरेः शिखरजः श्रीमान्सुशाखः सुप्रतिष्ठितः।
निर्भग्न इव वातेन कर्णिकारो हिमात्यये।
विशीर्णः पतितो राजा प्रसार्य विपुलौ भुजौ॥ 7-92-73(48243)
शेते स्म निहतो भूमौ काम्भोजास्तरणोचितः।
महार्हाभरणोपेतः सानुमानिव पर्वतः॥ 7-92-74(48244)
सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः।
पुत्रः काम्भोजराजस्य पार्थेन विनिपातितः॥ 7-92-75(48245)
धारयन्नग्निसङ्काशां शिरसा काञ्चनीं स्रजम्।
अशोभत महाबाहुर्व्यसुर्भूमौ निपातितः॥ 7-92-76(48246)
ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते।
हतं श्रुतायुधं दृष्ट्वा काम्भोजं च सुदक्षिणम्॥ ॥ 7-92-77(48247)

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे द्विनवतितमोऽध्यायः॥ 92 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-92-15 तेषां संयच्छतां विधारयताम्॥ 5-92-10 आचार्यकं शिक्षाम्॥ 5-92-28 रथेषुभिः अदूरस्थायिभिर्बाणैः॥ 5-92-54 कृत्या अभिचारदेवता॥ 5-92-72 ध्वजः शक्रध्वजः॥ 5-92-92 द्विनवतितमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.